Showing posts with label स्त्रोत्. Show all posts
Showing posts with label स्त्रोत्. Show all posts

Saturday, 24 March 2012


अथ तन्त्रोक्तं रात्रिसूक्तम् 

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।

निद्रां भगवतीं विष्णोरतुलां तेजसं: प्रभु:॥1॥

ब्रह्मोवाच

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कार: स्वरात्मिका।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषत:।

त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥3॥

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्।

त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥4॥

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने।

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥5॥

महाविद्या महामाया महामेधा महास्मृति:।

महामोहा च भवती महादेवी महासुरी॥6॥

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥7॥

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा।

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्ति: क्षान्तिरेव च॥8॥

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा॥9॥

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।

परापराणां परमा त्वमेव परमेश्वरी॥10॥

यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके।

तस्य सर्वस्य या शक्ति : सा त्वं किं स्तूयसे तदा॥11॥

यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत्।

सोऽपि निद्रावशं नीत: कस्त्वां स्तोतुमिहेश्वर:॥12॥

विष्णु: शरीरग्रहणमहमीशान एव च।

कारितास्ते यतोऽतस्त्वां क: स्तोतुं शक्ति मान् भवेत्॥13॥

सा त्वमित्थं प्रभावै: स्वैरुदारैर्देवि संस्तुता।

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ॥14॥

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु।

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ॥15॥

इति रात्रिसूक्तम् 

Saturday, 11 February 2012

आदित्यहृदय स्त्रोत 
सूर्य उपासना 


ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम्।1।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा।2।
राम राम महाबाहो श्रृणु गुह्यं सनातनम्।
येन सर्वानरीन् वत्स समरे विजयिष्यसे।3।
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयावहं जपं नित्यमक्षयं परमं शिवम्।4।
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्।
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम्।5।
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्।6।
सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः।7।
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः।8।
पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः।9।
आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान्।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः।10।
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान्।11।
हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः।12।
व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः।13।
आतपी मण्डली मृत्युः पिंगलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः।14।
नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते।15।
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः।16।
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः।17।
नम उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते।18।
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः।19।
तप्तचामीकराभाय हस्ये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे।20।
नाशयत्येष वै भूतं तमेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः।21।
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्।22।
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः।23।
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव।24।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति।25।
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्।26।
एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान्।27।
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्।28।
रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्।29।
अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति।30।
(सौजन्य से @ चन्द्रशेखर जी )
सुधा धारा स्त्रोत (काली )


अचिन्त्यामिताकार - शक्तिस्वरुपा
प्रतिव्यक्त्यधिष्ठान सत्त्वैकमूर्तिः
गुणतीत निर्द्वन्द्वबोधैकगम्या
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ १ 



अगोत्राकृतित्वाद नैकान्तिकत्वात्

अलक्ष्यागमत्वाद-शेषाकरत्वात्

प्रपञ्चालसत्वादनारम्भकत्वात्
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ २



असाधारणत्वाद सम्बन्धकत्वात्

अभिन्नाश्रयत्वाद-नाकारकत्वात्

अविद्यात्मकत्वाद-नाद्यन्तकत्वात्
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ३



यदा नैव धाता न विष्णुर्न रुद्रो
न कालो न व पञ्चभूतानि नाशा
तदाकरणीभूत स्त्त्वैक मूर्तिः
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ४



न मीमांसका नैव कालादितर्का
न सांख्यां न योगा न वेदान्तवेदाः
न देवा विदुस्ते निराकारभावम्
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ५



न ते नामगोत्रे, न ते जन्म मृत्युः
न ते धामचेष्टे न ते दुःख सौख्ये
न ते मित्र शत्रु न ते बंध मोक्षो
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ६



न बाला न चत्त्वं वयस्का न वृद्धा
न च स्त्री न षण्डः पुमान्नैव च त्वम्
न च त्वं सुरो नासुरो न नरो वा
त्वमेँका परःब्रह्मरुपेण सिद्धाः ॥ ७



जले शीतलत्त्वं शुचौ दाहकत्त्वं
विधौ निर्मलत्त्वं रवौ तापकत्त्वं
तवैषाम्बिके यस्य कस्यापि शक्तिः
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ८     



पपौ क्ष्वेडमुग्रं पुरा यन्महेशः
पुनः संहरत्यन्तकाले जगच्च
तवैव प्रसादान् न च स्वस्य शक्त्या
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ९



करालाकृतीन्याननानिश्रयन्ती
भजन्ती करास्त्रादि बाहुज्यमित्थम्
जगत् पालनायासुराणाम् वधाय
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ १०



रुचन्ती शिवाभिर् वहन्ती कपालं
जयन्ती सुरारीन् वधन्ती प्रसन्ना
नटन्ती, पतन्ती, चलन्ती हसन्ती
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ११



अपादापि वाताधिकं द्यावसित्त्वं
श्रुतिभ्यांविहीनापि शब्दं मृणोषि
अनासापि जिघ्रस्यानेत्रापि पश्यसि
अजिह्वापि नानारसास्वादविज्ञा ॥ १२



यथाबिम्बमेकं रवेरम्बरस्थं
प्रतिच्छायया यावदेकोदकेषु
समुद्रमातते नेकरुपं यथावत्
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ १३



यथा भ्रामयित्वा मृदं चक्रमध्ये
कुलालो विधन्ते शरावे घटं च
महामोह यंत्रेषु भूतान्यशेषान्
तथा मानुषांस्त्वं सृजस्यादिसर्गे ॥  १४



यथा रंगरज्वर्कदृष्टिष्वकस्मात्
नृणाम् रुपदर्वीकराम्बु भ्रमस्यात्
जगत्, यत्र तत्तन्मये तद्वदेव
त्वमेकैव तत्त् तन्नि तत्ता समस्तम् ॥ १५

.

महाज्योति एकार सिँहासनं वत्
त्वकीयान् सुरान् वाहयसि उग्रमूर्ते
अवष्टभ्य पदभ्यां शिवं भैरवं च
स्थितातेन मध्ये भवत्यैव मुख्या ॥ १६



कुयोगासने योगमुद्रभिः नीतिः
कुशोभायुपोतस्य बालाननं च
जगन्मातराद्वक् तवापूर्व लीला
कथं कारमस्मत् विधैर्देविगम्या ॥ १७



विशुद्धापरा चिन्मयी स्वप्रकाशः
मृतानंदरुपा जगद् वयापिका च
तवेदद्-विद्या या निजाकार मूर्ति
किमस्माभिरंतर - ह्यदि ध्यायितव्या ॥ १८



महाघोर कालानल ज्वालज्वाला
हित्यत् त्यन्तवासा महाटाट्टहासा
जटाभारकाला महामुण्डमाला
विशाला त्वमीद्वग् मयाध्यायशम्ब ॥ १९



तपोनैव कुर्वन् वपुः सीदयामि
व्रजन्नापि तीर्थँ पदे खंजयामि
पठन्नापि वेदान् चनिं यापयामि
त्वदंघ्रिद्वयं मंगलं साधयामि ॥ २०



तिरस्कर्वतोन्यामारोपासनार्चे

परित्यक्तधर्मादध्वरस्यास्य जन्तोः
वदाराधनान्यस्त चित्तस्य किम् मे
करिष्यन्त्यमी धर्मराजस्य दूताः ॥ २१



न मन्ये हरिँ नो विधातारमीश
न वहिनं न ह्यर्कं न चेन्द्रादिदेवान्
शिवोदीरितानेक वाक्यप्रबन्धैः
त्वदर्चाविधानं विशत्वम्ब मत्याम् ॥ २२



नरा मां विनिन्दन्तु नामत्यजेत्
सर्वा बान्धवा ज्ञातयः सन्त्यजन्त
यमीया भटा नारके पातयन्तु
त्वमेका गतिर्मे त्वमेका गतिर्मे ॥ २३



महाकाल रुद्रोदित स्तोत्रमेतत्
सदाभक्तिभावेन योऽध्येति भक्ताः
न चापन्न न शोको न रोगो न मृत्युः
भवेत् सिद्धिरन्ते च कैवल्यलाभः ॥ २४



इदं शिवायाः कथितं सुधाधाराख्यं स्तवं
एतस्य सतताभ्यासात् सिद्धिः करतलेस्थिता
एतत् स्तोत्रं च कवचं पद्मं त्रितयमप्यदः
पठनीयं प्रयत्नेन नैमिक्तिक समर्पणे ॥ २५


सौम्येन्दीवर नीलनीरद्घटा प्रोद्-दामदेहच्छटा

लास्योन्माद निनादमंगल चयैः श्रोण्यन्तदोलज्जटाः

साकालीकरवाल कालकलना हन्त्वंश्रियं चण्डिका

कालीक्रोध करालकालभयदाः उन्माद प्रमोदालयाः

नेत्रोपान्त कृतान्त दैत्यनिर्वहा प्रोद्-दान देहामया ॥




( इति सुधाधाराकाली स्तोत्रम् )                  

Wednesday, 17 August 2011

श्री शिवमहिम्न स्त्रोत



 

श्री शिवमहिम्न स्त्रोत





महिम्नः पारं ते परमविदुषो यज्ञसदृशी
स्तुतिर्ब्रह्मादीना मपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामधि गृणन्
ममाप्येषः स्तोत्रे हर निरपवादः परिकरः ॥१॥ 

अतीतः पंथानं तव च महिमा वाड् मनसयो
रतद्व्यावृत्यायं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥ 

मधुस्फीता वाचः परमममृतं निर्मितवत
स्तव ब्रह्मन्किं वा गपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥ 

तवैश्चर्यें यत्तद् जगदुदयरक्षाप्रलयकृत
त्रयी वस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहंतुं व्योक्रोशीं विदधत इहै के जडधियः ॥४॥ 

किमिहः किंकायः स खलु किमुपायस्त्रिभुवनं ।
किमाधारो धाता सृजति किमुपादान इति च ॥
अतकर्यैश्वर्येत्वय्यनवसरदुःस्थो हतधियः ।
कुतर्कोडयंकांश्चिन्मुखरयति मोहाय जगतः ॥५॥ 

अजन्मानो लोकाः किमवयवंवतोडपि जगता ।
मधिष्ठातारं किं भवविधिरनादत्य भवति ॥
अनीशो वा कुर्याद भुवनजनने कः परिकरो ।
यतो मंदास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥ 

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्या दजुकुटिलनानापथजुषां
नृणामेको गम्य स्त्वमसि पयसामर्णव इव ॥७॥ 

महोक्षः खड्वांगं परशुरजिनं भस्म फणिनः
कपालं चेतीय त्तव वरद तंत्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भव द्भ्रूप्रणिहितां
नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥ 

ध्रुवं कश्चित्सर्वं सकलमपरस्त्वद्ध्रुवमिदं
परो ध्रोव्याध्रोव्ये जगति गदति व्यस्तविषये ।
समस्तेडप्येतस्मि न्पुरमथन तैर्विस्मित इव
स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥ 

तवैश्वर्यं यत्ना द्यदुपरि विरिंचिर्हरिरधः
परिच्छेतुं याता वनलमनलस्कंधवपुषः ।
ततो भक्तिश्रद्धा भरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिने फलति ॥१०॥ 

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहू नभृन रणकंडुपरवशान् ।
शिरःपद्मश्रेणी रचितचरणांभोरुहबलेः
स्थिरायास्त्वद्भक्ते स्त्रिपुरहर विस्फूर्जितमिदम् ॥११॥



अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात्‌कैलासेऽपि त्वदधिवसतौविक्रमयतः।
अलभ्या पातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्‌ध्रुवमुपचितो मुह्यति खलः॥ १२॥

यदृद्धिं सुन्त्राम्नो  वरद परमोच्चैरपि
सतींधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।
न तच्चित्रं तस्मिन्‌वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः॥ १३॥

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा
विधेयस्याऽऽसीद्स्त्रिद्यनयन विषं संहृतवतः।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः॥ १४॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्‌
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः॥ १५॥

मही पादाघाताद्‌व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्‌भुजपरिघरुग्णग्रहगणम्‌।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता॥ १६॥

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः 
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमित्य 
अनेनैवोन्नेयं घृतमहिम दिव्यं तव वपुः॥ १७॥

रथः क्षोणी यन्ता शतघृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः॥ १८॥

हरिस्ते साहस्रं कमल बलिमाधाय पदयोः
र्यदेकोने तस्मिन्‌निजमुदहरन्नेत्रकमलम्‌।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्‌॥ १९॥

क्रतौ सुप्ते जाग्रत्‌त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्धवा  कृतपरिकरः कर्मसु जनः॥ २०॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः।
क्रतुभ्रेशस्त्वत्तः क्रतुफलविधानव्यसनिनो 
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः॥ २१॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्‌भूतां रिरमयिषुमृष्यस्य वपुषा।
धनु:पणेर्यातं दिवमपि सपत्राकृतममुम् 
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः॥ २२॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्‌
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटनाद 
अवैति त्वामद्धा बत वरद मुग्धा युवतय॥ २३॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः
सहचराश्चीताभस्मालेपः स्त्रगपि  नृकरोटीपरिकरः।
 अमङ्गल्यं शीलं तव भवतु नामैवमखिलम् 
 तथापि स्मर्त्तूणा  वरद परमं मङ्गलमसि॥ २४॥ 

मनः प्रत्यक्चित्ते सविधमविधायात्तमरुतः
 प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गतिदृशः।
 यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
 दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल  भवान्‌॥ २५॥ 

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहस्त्वमापस्त्वं
व्योम त्वमु धरणिरात्मा त्वमिति च।
 परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरम् 
  न विद्मस्तत्तत्त्वंवयमिह तु यत्‌ त्वं न भवसि॥ २६॥


त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि
सुरानकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्ण विकृति।
 तुरीयंते धाम ध्वनिभिरवरुन्धानमणुभिः
 समस्तव्यस्तं त्वां शरणद गृणात्योमिति पदम्‌॥ २७

भवः शर्वो रुद्रः पशुपतिरथोग्रः सह: महान्स्ताथ
 भोमेशानाविति यदभिधानाष्टकमिदम्‌।
 अमुष्मिन्‌प्रत्येकं प्रविचरति देव श्रुतिरपि
 प्रियायास्मै ते धाम्ने प्रणिहितनमस्योऽस्मि भवते॥ २८॥ 

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो नमः
क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।
 नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः
सर्वस्मैते तदिदमिति शर्वाय च नमः॥ २९॥ 

बहलरजसे विश्वोत्पत्तो  भवाय नमो नमः
 प्रबलतमसे तत्संहारे हराय नमो नमः।
 जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
 प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः॥ ३० 

कृशपरिणतिचेतः क्लेशवश्यं क्व चेद  
क्व तव गुणसीमोल्लङ्घिनीशश्वदृद्धिः।
 इति चकितममन्दीकृत्यमां भक्तिराधाद्वरद
चरणयोस्ते वाक्यपुष्पोपहारम्‌॥ ३१॥ 

असितगिरिसमं स्यात्‌ कज्जलं सिन्धुपात्रे  
सुरतरुवरशाखा लेखनी पत्रमुर्वी।
 लिखति यदि गृहीत्वा शारदा सर्वकालं  
तदपि तव गुणानामीशपारं न याति॥ ३२॥ 

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले
 ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य।
  सकलगुणवरिष्ठः पुष्पदन्ताभिधानो 
 रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार॥ ३३

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्पठति
 परमभक्त्या शुद्धचित्तः पुमान्यः।
 स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
 प्रचुरतरधनायुःपुत्रमान्कीर्तिमांश्च॥ ३४॥ 

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः  
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोःपरम्‌॥३५  

 दीक्षादानंतपस्तीर्थं ज्ञानर्यागादिकाः क्रियाः  
महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम्‌॥ ३६॥ 

कुसुमदशनना सर्वगंधर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः 
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात
स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्न३७

सुरवरमुनिपूज्यं स्वर्गमौक्षेकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेतः  
ब्रजति शिवसमीपं किन्नरै: स्तूयमानः
स्तवनमिदममोघम पुष्पदन्तप्रणीतम३८

श्रीपुष्पदन्तमुखपंकजनिर्गतेन
स्तोत्रेण किल्विषहरेण हरप्रियेण 
कंठस्थितेन पठितेन समाहितेन
सुप्रीणीतो भवति भूतपतिर्महेश ३९ 
    
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम  
अनोपम्यम मनोहारि शिवमीश्वरवर्णनम४०

तव तत्त्वं जानामि कीदृशोऽसि महेश्वर 
यादृशोऽसि महादेव तादृशाय नमो नमः४१

एककालं द्विकालं वा त्रिकालं यः पठेन्नर:  
सर्वपापविनिर्मुक्तः शिवलोके महीयते४२

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयो   
अर्पिता तेन देवेश प्रीयतां मे सवाशिवः ४३