Monday, 3 October 2011

अथ अर्गलास्तोत्रम्






अथ अर्गलास्तोत्रम्

ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी |

दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते ||१|| 

जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि |

जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ||२||

मधुकैटभविद्राविविधातृवरदे नमः |

रूपं देहि जयं देहि यशो देहि द्विषो जहि||३||

महिषासुरनिर्णाशि भक्तानां सुखदे नमः|

रूपं देहि जयं देहि यशो देहि द्विषो जहि||४||

रक्तबीजवधे देवि चण्डमुण्डविनाशिनि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||५||

शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||६||

वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||७||

अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||८||

नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||९||

स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१०||

चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||११||

देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१२||

विधेहि द्विषतां नाशं विधेहि बलमुच्च्कैः|

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१३||

विधेहि देवि कल्याणं विधेहि परमां श्रियम् |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१४||

सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१५||

विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१६||

प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१७||

चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१८||

कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||१९||

हिमाचलसुतानाथसंस्तुते परमेश्वरि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||२०||

इन्द्राणीपतिसद्भावपूजिते परमेश्वरि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||२१||

देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||२२||

देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||२३||

पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् |

रूपं देहि जयं देहि यशो देहि द्विषो जहि ||२४||

इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः |

स तु सप्तशतीसंख्यावरमाप्नोति सम्प्दाम् ||२५||

 इति अर्गलास्तोत्रं सम्पूर्णम् |  

श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्



श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्




शतनाम प्रवक्ष्यामि श्रुणुष्व कमलानने |
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ||१||
 ॐ सती साध्वी भवप्रीता भवानी भवमोचिनी |
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी||२||
पिनाकधारिणी चित्रा चंद्रघण्टा महातपाः | 
मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः ||३||
 सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरूपिणी | 
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ||४||
शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा | 
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ||५||
अपर्णानेकवर्णा च पाटला पाटलावती |
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ||६||
अमेयविक्रमा क्रूरा सुन्दरी सुरसुन्दरी |
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ||७||
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा |
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ||८||
विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा |
बहुला बहुलप्रेमा सर्ववाहनवाहना ||९||
निशुम्भशुम्भहननी महिषासुरमर्दिनी |
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ||१०||
सर्वासुरविनाशा च सर्वदानवघातिनी |
सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ||११||
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी |
कुमारी चैककन्या च कैशोरी युवती यतिः ||१२||
अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा |
महोदरी मुक्तकेशी घोररूपा महाबला ||१३||
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी |
नारायणी भद्रकाली विष्णुमाया जलोदरी ||१४||
शिवदूती कराली च अनन्ता परमेश्वरी |
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ||१५||
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् |
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ||१६||

अथ तन्त्रोक्तं देवीसूक्तम्


अथ तन्त्रोक्तं देवीसूक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः |
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्||१||
रौद्रायै भद्रायै नित्यायै गौर्यै धात्र्यै नमो नमः |
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः||२||
कल्याण्यै प्रणतां वृद्ध्यै सिद्धयै कुर्मो नमो नमः|
नैॠत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ||३||
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै |
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः||४||
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः |
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः||५||
या देवि सर्वभूतेषु विष्णुमायेति शब्दिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||६||
या देवि सर्वभूतेषु चेतनेत्यभिधीयते |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||७||
या देवि सर्वभूतेषु बुद्धिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||८||
या देवि सर्वभूतेषु निद्रारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||९||
या देवि सर्वभूतेषु क्षुधारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१०||
या देवि सर्वभूतेषु छायारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||११||
या देवि सर्वभूतेषु शक्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१२||
या देवि सर्वभूतेषु तृष्णारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१३||
या देवि सर्वभूतेषु क्षान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१४||
या देवि सर्वभूतेषु जातिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१५||
या देवि सर्वभूतेषु लज्जारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१६||
या देवि सर्वभूतेषु शान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१७||
या देवि सर्वभूतेषु श्रद्धारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१८||
या देवि सर्वभूतेषु कान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||१९||
या देवि सर्वभूतेषु लक्ष्मीरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||२०||
या देवि सर्वभूतेषु वृत्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||२१||
या देवि सर्वभूतेषु स्मृतिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||२२||
या देवि सर्वभूतेषु दयारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||२३||
या देवि सर्वभूतेषु तुष्टिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||२४||
या देवि सर्वभूतेषु मातृरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||२५||
या देवि सर्वभूतेषु भ्रान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||२६||
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या |
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ||२७||
चितिरूपेण या कृत्स्न्नमेतद्व्याप्य स्थिता जगत्|
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः||२८||
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता |
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ||२९||
या साम्प्रतं चोद्धतदैत्यतापितै रस्माभिरीशा च सुरैर्नमस्यते |
या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः||३०|| 

Saturday, 1 October 2011

अथ देव्यपराधक्षमापनस्तोत्रम्





अथ देव्यपराधक्षमापनस्तोत्रम्



न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो 
न चह्वानं न ध्यानं तदपि न जाने स्तुतिकथा:|
न जाने मुद्रास्ते तदपि च न जाने विलपनं  
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्||१||
विधेरज्ञानेन द्रविणविरहेणालसतया 
विधेयाशक्यत्वात्त्व चरणयोर्या च्युतिरभूत् |
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणी शिवे 
कुपुत्रो जायते कव्चिदपि कुमाता न भवति ||२ ||
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः |
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायते कव्चिदपि कुमाता न भवति ||३||
जगन्मातमार्तस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया|
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायते कव्चिदपि कुमाता न भवति ||४||
परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चासीतेरधिकमपनीते तु वयसि |
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ||५||
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः |
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ||६||
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः|
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ||७||
न मोक्षस्याकांक्षा भवविभववाञ्छापि च न में
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः |
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ||८||
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः |
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ||९||
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि |
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ||१०||
जगदम्ब विचित्रमत्र किं
परिपूर्णा करुणास्ति चेन्मयि |
अपराधपरम्परापरं
न हि माता समुपेक्षते सुतम् ||११||
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि |
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ||१२||

सिद्धकुञ्जिकास्तोत्रम्



सिद्धकुञ्जिकास्तोत्रम्
शिव उवाच
श्रृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम्‌।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत्‌॥1
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्‌।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्‌॥2
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्‌।
अति गुह्यतरं देवि देवानामपि दुर्लभम्‌॥ 3
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्‌।
पाठमात्रेण संसिद्ध्‌येत् कुञ्जिकास्तोत्रमुत्तमम्‌ ॥4
अथ मंत्र
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौ हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा
॥ इति मंत्रः॥

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि।
नमः कैटभहारिण्यै नमस्ते महिषामर्दिनि ॥1
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि  ॥2
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे।
ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका॥3
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते।
चामुण्डा चण्डघाती च यैकारी वरदायिनी॥ 4
विच्चे चाभयदा नित्यं नमस्ते मंत्ररूपिणी ॥5
धां धीं धू धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी।
क्रां क्रीं क्रूं कालिका देविशां शीं शूं मे शुभं कुरु॥6
हुं हु हुंकाररूपिण्यै जं जं जं जम्भनादिनी।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः॥7
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा॥
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा॥ 8
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिंकुरुष्व मे॥
इदं तु कुञ्जिकास्तोत्रं मंत्रजागर्तिहेतवे।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति॥
यस्तु कुंजिकया देविहीनां सप्तशतीं पठेत्‌।
न तस्य जायते सिद्धिररण्ये रोदनं यथा॥
। इतिश्रीरुद्रयामले गौरीतंत्रे शिवपार्वती
संवादे कुंजिकास्तोत्रं संपूर्णम्‌ ।

अथ सप्तश्लोकी दुर्गा


अथ सप्तश्लोकी दुर्गा
 देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी |
कलौ हि कार्यसिद्धयर्थमुपायं ब्रूहि यत्नतः ||
श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् |
माया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ||
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा !
बलादाकृष्य मोहाय महामाया प्रयच्छति ||१||

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः 

स्वस्थैः स्मृता मतिमतीव शुभां ददासि |
दारिद्रयदुःखभयहारिणी का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ||२||
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके |
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ||३||
शरणागतदीनार्तपरित्राणपरायणे |
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ||४||
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् |
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ||६||
सर्वाबाधाप्रशमनं त्रैलोकयस्याखिलेश्वरि |
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ||७||
इति सप्तश्लोकी दुर्गा सम्पूर्णा