अथ सप्तश्लोकी दुर्गा
कलौ हि कार्यसिद्धयर्थमुपायं ब्रूहि
यत्नतः ||
श्रृणु देव प्रवक्ष्यामि कलौ
सर्वेष्टसाधनम् |
माया तवैव स्नेहेनाप्यम्बास्तुतिः
प्रकाश्यते ||
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि
सा !
बलादाकृष्य मोहाय महामाया प्रयच्छति
||१||
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि |
दारिद्रयदुःखभयहारिणी का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ||२||
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके
|
शरण्ये त्र्यम्बके गौरि नारायणि
नमोऽस्तुते ||३||
शरणागतदीनार्तपरित्राणपरायणे |
सर्वस्यार्तिहरे देवि नारायणि
नमोऽस्तुते ||४||
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् |
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति
||६||
सर्वाबाधाप्रशमनं
त्रैलोकयस्याखिलेश्वरि |
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्
||७||
इति सप्तश्लोकी दुर्गा सम्पूर्णा

No comments:
Post a Comment