भक्तावासं स्मरेन्नित्यामायु: कामार्थ सिद्ध्ये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवकत्रं चतुर्थकम् ॥२॥
लंबोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विन्धराजं च धूम्रवर्ण तथाऽष्टकम्॥३॥
नवमम् भालचन्द्रम् दशमं तु विनायकम् ।
एकादशं गणपति द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥६॥
जपेद्द गणपतिस्तोत्रं षड्भिर्मासै: फलम् लभते ।
संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥७॥
अष्ठाभ्यो ब्राह्मणेभ्यश्च लिखित्वा ये समर्पयेत।
तस्य विद्या भवेत सर्वः गणेशस्य प्रसादतः ॥८॥
॥ इतिश्री नारदपुराणे संकटनाशनम् गणपतिस्तोत्रम् सम्पूर्णम् ॥

No comments:
Post a Comment