~ मधुराष्टकम् ~
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
हदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥
वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम्॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रुपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम्॥
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरमणं मधुरम्।
वणितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम्॥
गूंजा मधुरा माला मधुरा यमुना मधुरा वीच्ची मधुरा।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम्॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम्।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम्॥
गोपा मधुरा गावा मधुरा यष्टिमधुरा पुष्टिमधुरा।
ललितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम्॥
॥ इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥

No comments:
Post a Comment