श्रीविश्वनाथाष्टकं
गंगातरंगरमणीयजटाकलापं गौरी निरंतरविभूषितवामभागम |
नारायणप्रियमनंगमदापहारं वाराणसीपुरपतिं भज विश्वनाथम || १||
वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम|
वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम || २||
भूताधिपं भुजंगभूषणभूषितांगम व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रं|
पाशांकुशा भयवरप्रद शूलपाणिम वाराणसीपुरपतिं भज विश्वनाथम || ३ ||
शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषित पञ्चबाणम|
नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम || ४||
पंचाननं दुरितमत्तमतंगजानां नागान्तकं दनुजपुंगवपन्नगानाम|
दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम || ५||
तेजोमयं सगुणनिर्गुणमद्वितीय- मानन्दकन्दमपराजितमप्रमेयम|
नागात्मकं सकलनिष्कलमात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम || ६ ||
रागादिदोषरहितं स्वजनानुरागं वैराग्यशान्तिनिलयं गिरिजासहायम|
माधुर्यधैर्यसुभगं गरलाभिरामं वाराणसीपुरपतिं भज विश्वनाथम || ७ ||
आशां विहाय परिहृत्य परस्य निन्दां पापे रतिं च सुनिवार्य मन: समाधौ|
आदाय हृत्कमलमध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम || ८ ||
वाराणसीपुरपते: स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनुष्य:|
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं सम्प्राप्य देहविलये लभते च मोक्षम || ९ ||
विश्वनाथाष्टकमिदं य: पठेश्चशिवसन्निधौ|
शिवलोकमवाप्नोति शिवेन सह मोदते || १०||
इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम

No comments:
Post a Comment